मातर् धर्मपरे दयां कुरु मयि श्रान्ते च वैदेशिके
द्वारालिन्दककोणकेषु निभृतं स्थित्वा क्षिपामि क्षपाम् ।
इत्य् एवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितो
हस्तन्यस्तपलालमुष्टिविभवः पान्थः शनैर् गच्छति ॥१३४१॥
शतानन्दस्य । (स्व् २४१६, शा।प। ५८०, सू।मु। ९६।३, सु।र। १३१६)
स्वैरं सञ्चरति प्रदोषमरुति त्व् अङ्गत्तुषारे जरत्
तन्तुच्छेदविशीर्णसन्धिशकलव्याकृष्टकन्थाञ्चलः ।
शीतार्तः करुणार्द्रहालिकविनिर्दिष्टे क्षिपामि क्षपाम्
इत्य् उच्चार्य पलालकूटकुहरे श्रान्तः प्रसुप्तोध्वगः ॥१३४२॥
कस्यचित् ।
रुन्धानः कर्णसन्धी शिशिरभरभयात् पाणियुग्मेन गाढं
बाढं विन्यस्य बाहुद्वयम् उरसि रणद्दन्तपङ्क्तिः समन्तात् ।
अष्टीवद्भ्यां विचुम्बन्निपतितचिबुकं पृष्ठमात्रं हिमर्तौ
शेते सञ्छाद्य सद्यस् त्रुटितचिरजरत्कन्थया पान्थरङ्कः ॥१३४३॥
सुव्रतदत्तस्य ।
पुण्यानौ पूर्णवाञ्छः प्रथमम् अगणितप्लोषदोषः प्रदोषे
पान्थस् तप्त्वा प्रसुप्तः प्रतततनुतृणे धामनि ग्रामदेव्याः ।
उत्कम्पी कर्पटार्घे जरति पदहतिच्छिद्रिते च्छिन्ननिद्रो
वाते वाति प्रकमं हिमकणिनि कणन् कोणतः कोणम् एति ॥१३४४॥
बाणस्य । (स्व् १८५७, शा।प। ३९४६, सू।मु। ६४।१२, सु।र। १३०५)
संविष्टो ग्रामदेव्यास् तृणघटितकुटीकुड्यकोणैकदेशे
शीते संवाति वायौ हिमकणिनि कणहन्तपङ्क्तिद्वयाग्रः ।
पान्थः कन्थां निशीथे परिकलितजरत्तन्तुसन्तानगुर्वीं
ग्रीवापादाग्रजानुद्वयघटनरटत्कर्पटां प्रावृणोति ॥१३४५॥
तस्यैव । (शा।प। ३९४७, सू।मु। ६४।१३)