१७२ हेमन्तरात्रिः

अन्तर्मन्युविभिन्नदीर्घरसितप्रोद्भूतकण्ठव्यथैर्
आक्रुष्टास् तटिनीषु कोकमिथुनैर् यावन् निशीथं मिथः ।
शीतोज्जागरजम्बुकौघमुखरग्रामोपकण्ठस्थलाः
कृच्छ्रेणोपरमन्ति पान्थगृहिणीचिन्तायता रात्रयः ॥१३३१॥

अभिनन्दस्य ।

विश्रामं भज तालवृन्त सुमनोवैकक्षक क्षम्यतां
श्रीखण्डद्रव वन्दितोऽसि सुमनोहाराः पुनर् दर्शनम् ।
दीपे सम्प्रति कर्मसाक्षिणि परीरम्भाय वामभ्रुवाम्
एकोऽपि प्रभवन्ति हैमननिशायामा निशायामिनः ॥१३३२॥

शुभाङ्कस्य ।

प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृतिविदलत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविकसितोद्दाममन्दारदाम्नि ।
येषां नो कण्ठलग्ना क्षणम् अपि तुहिनक्षोददक्षा मृगाक्षी
तेषाम् आयामियामा यमसदनसमा यामिनी याति यूनाम् ॥१३३३॥

कस्यचित् । (स्व् १८४३, शा।प। ३९२४)

विलासिनां भाग्यविजृम्भितेन
यस्मिन् द्वयं साधु कृतं विधात्रा ।
यदङ्गनानां विपुलस्तनोष्मा
व्यधायि दीर्घाश् च कृता रजन्यः ॥१३३४॥

पुरुषोत्तमदेवस्य ।

हिमधवलकान्तिकेशी मन्दद्युतितारका बृहत्तिमिरा ।
द्विगुणीभूता रजनी वृद्धेव शनैः शनैर् याति ॥१३३५॥

कस्यचित् । (स्व् १८३२, शा।प। ३९१९, सू।मु। ६३।६)