१७० शरत्खञ्जनः

दूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्तूः
कण्टेनोच्चैर् मदकलरुतस्तोकवाचालचञ्चुः ।
हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेः
कञ्चित् कालं नटति निकटे खञ्जरीटः प्रियायाः ॥१३२१॥

मनोविनोदस्य । (सु।र। २७४)

मुहुर् अलसितपुच्छप्रेङ्खितैः प्रेयसीनां
मनसि मनसिजस्य प्रीतिम् उद्द्योतयन्ति ।
नवकनबकपत्रच्छत्रसूनानुकूल
स्थलकवलितकीटाः खञ्जरीटाश् चरन्ति ॥१३२२॥

अपिदेववामनदेवयोः ।

अयं मेघव्यूहे बलिनि परिपन्थिन्य् अपसृते
शरज्जन्याः स्वैरं हसितम् इव हर्षाद् अविरतम् ।
पयःपूरभ्रंशक्रमजनितसोपानसिकते
नदीतीरे धीरं चरति विशदः खञ्जनगणः ॥१३२३॥

सुवर्णस्य ।

सम्प्रति दिगङ्गनानां
शरन्निराकृतघनान्धपटलानाम् ।
खञ्जनकटाक्षपातैः
कर्बुरितं गगनम् आभाति ॥१३२४॥

कस्यचित् ।

मधुरमधुरं कूजन्न् अग्रे पतन्मुहुरुत्पतन्न्
अविरलचलत्पुच्छः स्वेच्छं विचुम्ब्य चिरं प्रियाम् ।
इह हि शरदि क्षीवः पक्षौ विधूय मिलन् मुदा
मदयति रहः कुञिजे मञ्जुस्थलीम् अधि खञ्जनः ॥१३२५॥

जयदेवस्य ।