पारावारप्रकटपुलिनाभ्युगमोत्तारपाण्डुर्
लीलावर्तस्तिमितचलनव्यञ्जितोद्देशनिम्ना ।
क्रौञ्चीजानुद्वयसपयसाम् अन्तरीपोदरेषु
स्वच्छा वेणिर् मदयति मनः शारदीनां नदीनाम् ॥१३१६॥
कस्यचित् ।
खेलत्खञ्जनलोचनाः खगनखक्षुण्णान्तरीपो रवः
स्रस्तैः शैवलकुन्तलैर् अविरतस्मेरारविन्दाननाः ।
वर्षारात्रिघनोपभोगकथयेवालीर् मरालाङ्गनाः
प्रीणन्त्य् अद्य शरत्प्रभातमिलिता नीचस्वनैर् आपगाः ॥१३१७॥
कस्यचित् ।
पूर्वं वारिधप्रसङ्गसमये नापूरितैः कुक्षिभिर्
या गर्भिण्य इवातिभारगुरवो निःसेव्यताम् आगताः ।
एताः सम्प्रति ता विभान्त्य् अकुलषाः क्षामाभिरामाङ्गिकाः
कूजत्सारसपोतपीतपयसो नद्यः प्रसूता इव ॥१३१८॥
काश्मीरकभोगकर्मणः । (स्व् १८२५, सू।मु। ६२।२१)
पूरापायप्रकटविटपाः पर्यटत्खञ्जरीटा
क्रान्तप्रान्ताः प्रसभविलसद्राजहंसावतंसाः ।
अद्यानन्दं दधति विचरच्चक्रवाकोग्रचञ्चु
ग्रासत्रासप्रचलशफरस्मेरनीरास् तटिन्यः ॥१३१९॥
डिम्बोकस्य । (सु।र। २८८)
इमास् ताः कस्तूरीप्रखरखुरटङ्कक्षततटास्
तटिन्योऽरण्यानीम् अनु कमलिनीच्छन्नसलिलाः ।
जले यासां हंसा बिसकिसलयग्रासरसिकाः
सलीलं लीयन्ते युवतिगतिविद्यैकगुरवः ॥१३२०॥
मन्मोकस्य ।