१६८ शरत्

यद्यप्य् अहं शशिमुखि विमलाम्बरश्रीर्
बन्दूकपुष्परुचिराधरपल्लवापि ।
धिङ् मां तथापि गलितोरुपयोधरत्वाद्
इत्य् उच्चकैः शरद् इयं वहतीव तापम् ॥१३११॥

मनोविनोदस्य । (सु।र। २६७)

वराहानाक्षेप्तुं कलमकवलप्रीत्यभिमुखा
निदानीं सीमानं प्रति विहितमञ्चाः स्वपतिभिः ।
कपोतैः पोतार्थं कृतनिविडनीडा विटपिनः
शिवाभिर् वल्मीकाः खरनखरखातोदरमृदः ॥१३१२॥

शतानन्दस्य । (सु।र। २८५)

तीक्ष्णं रविस् तपति नीच इवाचिराढ्यः
शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः ।
तोयं प्रसीदति मुनेर् इव धर्मचिन्ता
कामी दरिद्र इव शोषम् उपैति पङ्कः ॥१३१३॥

भासस्य । (सु।र। २७६, स्व् १८२१, शा।प। ३९०७, सू।मु। ६२।३)

कान्तानां वदनेन्दुकान्तिमधुना धत्ते सुधादीधितिः
खेलत्खञ्जनपङ्क्तयो मृगदृशां तन्वन्ति नेत्रश्रियम् ।
पद्मानि श्वसितस्य सौरभम् अभिद्रुह्यन्ति वामभ्रुवाम्
अभ्यस्यन्ति च राजहंसवनिताः पीनस्तनीनां गतिम् ॥१३१४॥

लक्ष्मीधरस्य ।

वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसङ्काशकाशाः
काशाभा भान्ति तासां नवपुलिनगताः श्रीनदीहंसहंसाः ।
हंसाभाम्भोदयुक्तः शरदमलपटुर् मेदिनीचन्द्र चन्द्रश्
चन्द्राङ्कः शारदस् ते जयकृद् उपनतो विद्विषां कालकालः ॥१३१५॥

वामनस्य ।