आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा
विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः ।
धाराक्लिन्नकदम्बसम्भृतसुधामोदोद्वहाः प्रोषितैर्
निःसम्पातविसारिदर्दुररवा नीताः कथं रात्रयः ॥१३०१॥
कस्यचित् । (सु।र। २२०, योगेश्वरस्य)
खद्योतच्छुरितान्धकारपटलाः स्पष्टस्फुरद्विद्युतः
स्निग्धध्वानविभावितोरुजलदोन्नाहा रटत्कम्बवः ।
एताः केतकभेदवासितपुरोवाताः पतद्वारयो
न प्रत्येमि जनस्य यद् विरहिणो यास्यन्ति सोढुं निशाः ॥१३०२॥
कस्यचित् । (सु।र। २२८)
विष्वग्वातविकीर्णशीकरकणाः स्फारस्फुरद्विद्युतस्
तत्कालप्रतिबुद्धकेतकशिखागन्धोपदिग्धाम्बराः ।
दात्यूहप्रसवप्रणादितदिशः पान्थप्रियाणाम् अभूर्
उन्मथ्नन्ति मनांसि मांसलघनध्वानोत्तरा रात्रयः ॥१३०३॥
कस्यापि ।
अम्भःसम्भृतिमन्थराम्बुदरवैः शालूरगर्जाभर
प्रारब्धप्रियविप्रयुक्तयुवतीजीवग्रहे भीषणाः ।
विद्युद्दन्तुरितान्धकारपटला गाम्भीर्यबद्धारव
स्थैर्योन्मूलनशक्तयः कथम् अमी निर्यान्ति वर्षानिशाः ॥१३०४॥
माधवस्य ।
विद्युद्दीधितिभेदभीषणतमःस्तोमान्तराः सन्तत
श्यामाम्भोधररोधसङ्कटवियद्विप्रोषितज्योतिषः ।
खद्योतोन्नमितोपकण्ठतरवः पुष्णन्ति गम्भीरताम्
आसारोदकमत्तकीटपटलीक्वाणोत्तरा रात्रयः ॥१३०५॥
कस्यचित् । (सु।र। २५२)
शरदारम्भः
शुभ्राभ्रं गगनं क्वचित् प्रविकसत् काशा वनाली क्वचित्
तोयोन्मुक्ततृणाग्रपङ्कजटिला क्षेत्रान्तभूमिः क्वचित् ।
किं च क्वापि चकोरचारुचरणन्यासार्द्रमुद्राभृतो
दृश्यन्ते तटिनीविमुक्तपुलिनच्छेदा मनोहारिणः ॥१३०६॥
सङ्ग्रामदत्तस्य ।
आगत्य सम्प्रति वियोगविसंष्ठुलाङ्गीम्
अम्भोजिनीं क्वचिद् अपि क्षपितत्रियामः ।
एतां प्रसादयति पश्य शनैः प्रभाते
तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥१३०७॥
कस्यचित् ।
धूम्रैः पक्षपुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर्
आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः ।
मङ्गल्यं च कलङ्कपल्लवमुखं स्मेरानना शर्वरी
ज्योत्स्नादर्पणगौरम् इन्दुकलशं व्योमाङ्गने न्यस्यति ॥१३०८॥
कस्यचित् । (सु।र। २६९)
हंसानां निवहेषु यैः कवलितैर् आसज्यते कूजताम्
अन्यः कोऽपि कषायकण्ठलुठनाद् आघर्घरो निस्वनः ।
ते सम्प्रत्य् अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो
निर्याताः कमलाकरेषु बिसिनीकन्दाङ्कुरग्रन्थयः ॥१३०९॥
कमलायुधस्य । (सु।र। २८४, ध्व। ४।७)
परावृत्ता हंसाः सपदि विगतं कल्मषम् अपां
प्रसन्नः शीतांशुः प्रसृतपटवः सूर्यकिरणाः ।
दिशो दीर्घीभूता गगनम् असिवर्णं च विपुलं
नियन्ता विन्ध्याद्रेर् विदितम् उदितोऽसौ मुनिवृषा ॥१३१०॥
योगेश्वरस्य ।