१६१ वर्षारम्भः

नेतुं वाञ्छति नीड एव दिवसं गर्भालसा वायसी
रक्तो नीपलतासु भुक्तविरसाम् उज्झत्य् अलिः पाटलम् ।
तेजः सम्प्रति संहरन्ति शिखिनो दग्धव्यापारं गता
जम्बूम् आम्रवनाद् उपैत् शनकैर् आसन्नपाकां पिकः ॥१२७६॥

अभिनन्दस्य ।

स्थलीभूमिर् निर्यन्नवकतृणरोमाञ्चनिचय
प्रपञ्चैः प्रोन्मीलत्कुटजकलिकाजृम्भितशतैः ।
घनारम्भे प्रेयस्य् उपगिरि गलन्निर्झरजल
प्रणालप्रस्वेदैः कम् अपि मृदुभावं प्रथयति ॥१२७७॥

नरसिंहस्य ।

वातोद्धूर्तरजोमिलज्जललवैर् उच्चित्रिताः शाखिनश्
छत्रीकृत्य मृदां त्वचः स्थलभुवो निर्यन्ति शष्पाङ्कुराः ।
स्निग्धश्यामलकण्ठनालवलनव्यालोकिताम्भोमुचः
केकाभिः ककुभां मुखानि शिखिनो वाचालयन्त्य् उत्सुकाः ॥१२७८॥

अरविन्दस्य ।

किञ्चिन् मुद्रितपांशवः शिखिकुलैः सानन्दम् आलोकिता
भग्नावासरुदहरिद्रगृहिणी श्वासानिलजर्जराः ।
एते ते निपतन्ति नूतनघनात् प्रावृड्भवारम्भिणो
विच्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः ॥१२७९॥

कस्यचित् । (शा।प। ३८७२)

वर्षारम्भसमुन्नमद्घनघटागर्जाभिरुत्त्रस्यता
ग्रीष्मेणापसृतं क्वचित् क्वचिद् अपि न्यस्तानि वस्तून्य् अपि ।
धूलिः केतककुड्मले विरहिणीचेतःसु दावानलः
खद्योतभ्रमिषूडुचक्रम् अरुणज्योतिस् तडिद्वल्लिषु ॥१२८०॥

कस्यचित् ।