१६० दावानलः

आरोहत्य् अवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धते
खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते ।
अन्तर् भ्राम्यति कोटरस्य विरमत्य् आलम्बते वीरुधः
किं तद् यन् न करोति मारुतवशं यातः कृशानुर् वने ॥१२७१॥

योगेश्वरस्य । (स।क।आ। १।८२, सू।मु। ३४।७, वसुन्धरस्य)

विध्वस्ता मृगपक्षिणो विवशतां नीताः स्थलीदेवता
धूमैर् अन्तरिताः स्वभावमलिनैर् आशा महीतापिताः ।
भस्मीकृत्य सपुष्पपल्लवफलांस् तांस् तान् महापादपान्
निर्वृत्तेन दवानलेन विहितं वल्मीकशेषं वनम् ॥१२७२॥

तस्यैव (शा।प। ११५९, सू।मु। ३४।५, सु।र। १११४। अल्ल् अनोन्य्मोउस्।)

अस्मिन् नीषद् वितत्तवलितस्तोकविच्छिन्नभुग्नः
किञ्चिल्लीलोपचितविनतः पुञ्जितश्चोत्थितश् च ।
धूमोद्गारस्तरुणमहिषस्कन्धोअनीलो दवाग्नेः
स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान् ॥१२७३॥

बाणस्य । (स।क।आ। १।८५, सु।र। ११७४। बोथ् अनोन्य्मोउस्।)

बाले मालेयम् उच्चैर् न भवति गगनव्यापिनी नीरदानां
किं तत्पक्ष्मान्तपातैर् मलिनयसि मुधा वक्त्रम् अश्रुप्रवाहैः ।
एषा प्रोद्धृत्तमत्तद्विपकषणक्षुण्णविन्ध्योपलाभा
दावाग्नेः सम्प्रवृद्धा मलिनयति दिशां मण्डलं धूमलेखा ॥१२७४॥

कस्यचित् । (स।क।आ। २।२०३, शा।प। ३८२९ धाराकदम्बस्य)

दिशः प्रोद्यत्सन्ध्यागगनतलम् उद्रक्तकुसुमं
तरून् आबद्धोरुस्तवकविकसत्किंशुकलतान् ।
विलोलत्कौसुम्भध्वजपटसमाश्लिष्टशिखराः
प्रकुर्वन् वंशालीर् विकसति महीध्रेषु दहनः ॥१२७५॥

कस्यचित् ।