तदात्वस्नातानां मलयजरसैर् आर्द्रवपुषां
कुचान् बिभ्राणानां दरविकचमल्लीमुकुलिनः ।
निदाघार्कप्रोषग्लपितमहिमानं मृगदृशां
परिष्वङ्गोऽनङ्गं पुनर् अपि शनैर् अङ्कुरयति ॥१२६६॥
मङ्गलार्जुनस्य । (सु।र। १९२, शा।प। ३८३४)
अपां मूले लीनं क्षणपरिचितं चन्दनरसे
मृणालीहारादौ कृतलघुपदं चन्द्रमसि च ।
मुहूर्तं विश्रान्तं सरसकदलीकाननतटे
प्रियाकण्ठाश्लेषे निविशति पदं शैत्यम् अधुना ॥१२६७॥
कस्यचित् । (सु।र। २०१)
एतस्मिन् घनचन्दनार्द्रवपुषो निद्राकषायेक्षणा
लीलालोलमृदूल्लसद्भुजलताव्याजृम्भमाणा मुहुः ।
निर्गच्छन्ति शनैर् अहःपरिणतौ मन्दा लतामन्दिरात्
स्वेदाम्भःकणदन्तुरस्तनतटाभोगाः कुरङ्गीदृशः ॥१२६८॥
कालिदासनन्दिनः ।
हरन्ति हृदयानि यच् छ्रवणशीतला वेणवो
यद् अर्घति करम्बिता शिशिरवारिणा वारुणी ।
भवन्ति च हिमोपमाः स्तनभुवो यद् एणीदृशां
शुचेर् उपरि संस्थितो रतिपतेः प्रसादो गुरुः ॥१२६९॥
राजशेखरस्य । (वि।शा।भ। ४।४, सु।र। २११)
शुचौ तप्ताङ्गानां बहलमकरन्दद्रवमुचः
कदम्बप्रालम्बाः स्तनपरिसरे पक्ष्मलदृशाम् ।
हठाल् लूनोष्माणः कम् अपि महिमानं विदधते
जलक्रीडातीर्णप्रियतमभुजाबन्धशिशिराः ॥१२७०॥
कस्यचित् ।