जलार्द्रं संव्यानं बिसकिसलयैः केलिवलयाः
शिरीषैर् उत्तंस्प् विचकित्लमयी हाररचना ।
शुचावेणाक्षीणां मलयजरसार्द्राश् च तनवो
विना तन्त्रं मन्त्रं रतिरमणमृत्युञ्जयविधिः ॥१२६१॥
कस्यचित् । (वि।शा।भ। ४।३, सु।र। २१२, राजशेखरस्य)
तोयोत्तीर्णा श्रयति कवरी शेखरं सप्तलानां
शैत्यं सिञ्चत्य् उपरि कुचयोः पाटलाकण्ठदाम ।
कान्तं कर्णावभिनिविशते कोमलाग्रं शिरीषं
स्त्रीणाम् अङ्गे विभजति तपस् तत्र तत्रात्मचिह्नम् ॥१२६२॥
मधुरशीलस्य । (सु।र। २०९, मधुशीलस्य)
कर्णोत्तंसः शिशुशुकवधूपिच्छलीलं शिरीषं
सान्तःसूत्राः परिमलमुचो मल्लिकानां च हाराः ।
मुक्तागौरैर् वलयरचनाकन्दलाग्रैर् बिसानां
ग्रीष्मारम्भे रमयति नवं मण्डनं कामिनीनाम् ॥१२६३॥
कस्यचित् ।
अभिनवकुशसूत्रस्पर्धि कर्णे शिरीषं
कुरवकपरिधानं पाटलादाम कण्ठे ।
तनुसरसजलार्द्रोन्मीलितः सुन्दरीणां
दिनपरिणतिजन्मा कोऽपि वेशश् चकास्ति ॥१२६४॥
कमलायुधस्य ।
सद्यश् चम्पककञ्चुका कुचतटी वैकक्षके मल्लिकाः
काञ्च्र् वैचकिली बिसालिवलयाग्रैवेयकं केशरैः ।
चाम्पेयोत्तरपाटला च कवरी कर्णः शिरीषाञ्चितो
वेशश् चेद् अयम् अङ्गनासु न तदानङ्गस्य के किङ्कराः ॥१२६५॥
कस्यचित् ।