१५७ ग्रीष्मः

भुवां घर्मारम्भे पवनचलितं तापहृतये
पटच्छत्राकारं वहति गगनं धूलिपटलम् ।
अमी मन्दाराणां दवदहनसन्देहितधियो
न डौकन्ते पातुः झटिति मकरन्दं मधुलिहः ॥१२५६॥

भवभूतेः (सु।र। २००)

सलिलम् अखिलं वेशन्तानां लुलापकुलाकुलं
विशति बिसिनीपत्रच्छत्रे रथाङ्गविहङ्गमः ।
निजगजपतिं कुञ्जच्छायां नयन्ति पदे पदे
पृथुवमथुना सिक्त्वा सिक्त्वा करेण करेणवः ॥१२५७॥

कस्यचित् ।

प्रान्ते पङ्किनि पल्लवस्य विलुठन् पौत्री नयत्य् आतपांस्
तृष्णालुर् निभृतं ह्रदेषु महिषः शैवालम् अन्विष्यति ।
आचीर्णौषधिमूलशीतसुरभिश्वासानिलान्दोलयन्
प्रक्षीणोष्मणि लीयते वनगिरिश्वभ्रोदरे शल्लकः ॥१२५८॥

योगेश्वरस्य ।

अम्भोधेर् जलयन्त्रमन्दिरपरिस्पन्देऽपि निद्राणयोः
श्रीनारायणयोर् घनं विघटयन्त्य् ऊष्मा समालिङ्गनम् ।
किं चोत्तप्तवियत्कपालफलके कङ्कालशेषश्रियं
चन्द्रं मर्मरयन्ति पर्पटकरक्रूरा रवेर् अंशवः ॥१२५९॥

कस्यचित् । (सु।र। २१४, नारायणलच्छि)

पाषाणः कुलिशायते पुरपथं सन्तप्तलोहायते
निर्वातं दहनायते च निविडाङ्गारायते शर्करा ।
एतस्मिंस् तरुणप्रचण्डमहसः प्रौढातपे सर्वतः
क्षोणी शुष्यति बालुका च सरितां वह्निस्फुलिङ्गायते ॥१२६०॥

भवानन्दस्य ।