हंसाः सम्प्रति पक्षतौ सुनिभृतं कृत्वा शिरः शेरते
ज्योत्स्नाभिस् तृषिताः समं सहचरैः सुप्ताश् चकोरस्त्रियः ।
घूर्णद्भिः कुमुदोदरेष्व् अपि मधुक्षीवैः स्थितं षट्पदैर्
अप्य् उच्चैर् गिरिशृङ्गमूर्धनि भृशं निर्यान्त्य् अमी बर्हिणः ॥१२२१॥
उमापतिधरस्य ।
सैरन्ध्रीकरकृष्टपट्टकसरत्तारध्वनिर् दूरतो
दूतीसूत्रितसन्धिविग्रहविधिः सोल्लासलीलाचयः ।
वारस्त्रीजनसज्ज्यमानशयनः सन्नद्धपुष्पायुध
श्रीखण्डद्रवधौतसौधमलिनो रम्यः क्षणो वर्तते ॥१२२२॥
कस्यचित् । (वि।शा।भ। २।२३, शा।प। ३५९१, सू।मु। ६८।२)
दिक् सरागमुखसन्निधापित
स्फीतचन्द्रचषका शतक्रतोः ।
क्षीवभावम् इव बिभ्रती रतौ
विश्लथोच्चतिमिरांशुकोच्चया ॥१२२३॥
अभिनन्दस्य ।
बाष्पैर् मानवती जनस्य कुलटासङ्केतचिन्तोर्मिभिः
सम्प्राप्ता प्रियसङ्गमैकमनसाम् आकल्पनोपक्रमैः ।
दूतीसञ्चरणैर् अपि प्रणयिनोः सन्देशवक्रोक्तिभिः
कुत्रायं कुरुते न मन्मथमनस्तोषं प्रदोषागमः ॥१२२४॥
जलचन्द्रस्य ।
उपरि गूढहिमांशुमरीचिभिस्
तमसि दूरम् इतः प्रतिसारिते ।
अलकसंयमनाद् इव लोचने
हरति मे हरिवाहनदि मुखम् ॥१२२५॥
कालिदासस्य । (विक् ३।६)