वदनविधुसुधाभिषेकशीतान्
सपरिभावनयेव लोलमौलिः ।
त्वदधरमरुतो निपीय हास्यत्य्
अपि सहजक्षणभङ्गितां प्रदीपः ॥१२११॥
तैलपाटीयगाङ्गोकस्य ।
निर्वाणगोचरगतोऽपि मुहुर् निशायां
किं चेष्टितं तरुणयोः सुरतावसाने ।
इत्य् एवम् आकलयितुं सकलं कलाविद्
उद्ग्रीविकाम् इव ददाति रतिप्रदीपः ॥१२१२॥
कस्यचित् । (सु।र। ८५६)
बालां कृशाङ्गीं सुरतानभिज्ञां
गाढं नवोढाम् उपगूढवन्तम् ।
विलोक्य जामातरम् एष दीपो
वातायते कम्पम् उपैति भीतः ॥१२१३॥
कस्यचित् । (सु।र। ८५७)
हनूमान् इव दीपोऽयं दूरम् उल्लासिताञ्जनः ।
किं च राम इवाभाति विनिर्धूतदशाननः ॥१२१४॥
कस्यचित् ।
अतिपीतां तमोराजीं तनीयान् वोढुम् अक्षमः ।
वमतीव शनैर् एष प्रदीपः कज्जलच्छलात् ॥१२१५॥
कस्यचित् । (सु।र। ८५५)