१४७ अन्धकारः

अक्ष्णोर् मञ्जुलम् अञ्जनं चरणयोर् नीलाश्मजौ नूपुरा
वङ्गे नीलपटः स्फुटं मृगमदन्यासः कपोलस्थले ।
यत्प्रीत्या परिशीलितं परदृशां रोधाय तत् साम्प्रतं
नेपथ्यस्य विधाव् अपीदम् असतीजातस्य जातं तमः ॥१२०६॥

वापीकस्य ।

उत्सारितो हसितदीधितिभिः कपोलाद्
एकावलीभिर् अवधूत इव स्तनेभ्यः ।
अङ्गेष्व् अलब्धपरिभोगसुखोऽन्धकारो
गृह्णाति केशरचनासु रुषेव नारीः ॥१२०७॥

गणपतेः । (सु।र। ८९२)

अद्रिष्वञ्जनपुञ्जकान्ति जलदप्रायं च मूले दिशाम्
ऊर्ध्वं नीलवितानकल्पभवनौ जम्बाललेपोपमम् ।
तीरे नीरनिधेस् तमालविटपिच्छायां च सायं शनैर्
उद्गच्छत्य् अभिसारिकाप्रियतमप्रेमानुकूलं तमः ॥१२०८॥

झञ्झानिलस्य ।

यत्र तत्र रतिसज्जबन्धकी
प्रीतये मदनशासनाद् इव ।
नीलकाण्डपटताम् उपाययौ
सूचिभेद्यनिविडं निशातमः ॥१२०९॥

धोयीकस्य ।

उद्धूता धूमधारा विरहिजनमनोमाथिनो मन्मथाग्नेः
कस्तूरीपत्रमाला तिमिरततिर् अहो दिक्पुरन्ध्रीमुखानाम् ।
निर्वाणाङ्गारलेखा दिवसहुतभुजः सञ्चरच्चञ्चरीक
श्रेणीयं भाति भास्वत्करलुलितनभःकन्दरेन्दीवरस्य ॥१२१०॥

गोवर्धनस्य ।