१४६ सन्ध्या

निशाकरकर—स्पर्शहर्षोन्मीलिततारका ।
अहो रागवती सन्ध्या जहाति स्वयम् अम्बरम् ॥१२०१॥

युवराजस्य ।

दिक्कामिनीवदनकुङ्कुमपङ्कचर्चा
चकाङ्गनाहृदयदावदवानलार्चिः ।
सन्ध्या रराज गगनान्तरतोयराशि
बालप्रवालविटपाङ्कुरकन्दलश्रीः ॥१२०२॥

कस्यचित् ।

कौसुम्भवसरुचिरां सन्ध्यां परिणीय मन्दम् अनुयान्तीम् ।
वासालयम् इव जलधिं रागी पुरतो रविर् विशति ॥१२०३॥

उमापतिधरस्य ।

आकृष्टश् चक्रवाकैर् नयनकलनया बन्धकीभिर् निरस्तो
नास्तं द्राग् एति भानुर् निवसति नलिनीबोधनिद्रान्तराले ।
सन्ध्यादीपप्ररोहं बहुलतिलरसव्याप्तपत्रान्तरालं
वासागारे दिशन्ती हसति नववधूक्रोधदृष्टा भुजिष्या ॥१२०४॥

तस्यैव ।

अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः ।
अहो दैवगतिश्चित्रा तथापि न समागमः ॥१२०५॥

कस्यचित् । (कुवल्। प्। १०८, स।क।आ। ३।४४, सा।द। उन्देर् १०।१२८)