१४५ अस्तमयः

याते भास्वति वृद्धसारसशिरःशोणेस्तशृङ्गाश्रयं
व्यालिप्तं तिमिरैः कठोरबलिभुक्कण्ठातिनीलैर् नभः ।
माहेन्द्री दिग् अपि प्रसन्नमलिना चन्द्रोदयाकाङ्क्षिणी
भात्य् एषा चिरविप्रयुक्तशवरीगण्डाभपाण्डुच्छविः ॥११९६॥

मलयराजस्य । (सु।र। ८७५)

क्रमसङ्कुचितकुशेशयकाषान्तरनीयमानमधुपेन ।
गरलम् इव गलति नलिनी दिनकरविरहातिखेदेन ॥११९७॥

दत्तस्य ।

करसादोऽम्बरत्यागस् तेजोहानिः सरागता ।
वारुणीसङ्गमावस्था भानुनाप्य् अनुभूयते ॥११९८॥

काश्मीरकसुरमूल्यस्य । (स्व्। १८८६, सुरभिचूलस्य)

व्रजति कलितस्तोकालोको नवीनजवारुण
च्छविर् असौ बिम्बं विन्दन् दिशं भृशम् अप्पतेः ।
ककुभि ककुभि प्राप्ताहाराः कुलायमहीरुहां
शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्त्रिणः ॥११९९॥

कस्यचित् । (सु।र। ८६९)

रुचिरजनितताराहारचौरस्य भूभृच्
छिखरतरुनिवेशोल्लम्बितस्योर्ध्वपादम् ।
चिरम् अवनतम् एतच् छोणितापूर्यमाणं
मुखम् इव रविबिम्बं रज्यते वासरस्य ॥१२००॥

सङ्घश्रीमित्रस्य ।