एतस्मिन् दिवसस्य मध्यसमये वातोऽपि चण्डातप
त्रासेनेव न सञ्चरत्य् अहिमगोर्बिम्बे ललाटन्तपे ।
किं चान्यत्परितप्तधूलिलुठनप्रोषासहत्वाद् इव
च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते ॥११९१॥
मलयराजस्य । (सु।र। ९८२)
धत्ते पद्मलतादलेप्सुर् उपरि खं कर्णतालं द्विपः
शष्पस्तम्बरसान् नियच्छति शिखी मध्ये शिखण्डं शिरः ।
मिथ्या लेढि मृणालकोटिरभसाद् दंष्ट्राङ्कुरं शूकरो
मध्याह्ने महिषश् च वाञ्छति निजच्छायामहाकर्दमम् ॥११९२॥
राजशेखरस्य । (वि।शा।भ। १।४३, सु।र। ९८९)
मध्याह्नार्कमरीचिदुःसहतया सन्त्यज्य दर्भाङ्कुर
ग्रासान् आश्रितकन्दरद्रुमघनच्छायं मृगाः शेरते ।
मातङ्गः करशीकरैर् निजवशां सिञ्चन् श्रमार्तां मुहुर्
निष्क्रान्तो गहनाद् द्रुतोद्गतपदं पद्माकरे सर्पति ॥११९३॥
वसन्तदेवस्य ।
तापात् पिण्डितविग्रहेव विशति च्छाया तरूणां तले
रुद्धः स्वाश्रयपक्षपातकृतिभिः पद्मैर् अपाम् आतपः ।
अद्यान्तःपुरयोषितां मधुमदोत्सेकात् कपोलोदरे
द्वित्रैः स्वेदलवैर् उदञ्चितम् अहो सूर्यो ललाटं तपः ॥११९४॥
उत्पलराजस्य ।
वपुस् तिम्यच् चीनांशुकनिविडपीनोरुजघन
स्तनानां निश्च्योतच्चिकुरपयसां पक्ष्मलदृशाम् ।
निमग्नोत्तीर्णानां प्रमदवनवापीतटजुषां
दिदृक्षाभिर् देवो रविर् अथ रथं मन्थरयति ॥११९५॥
गोवर्धनस्य ।