कान्ते तल्पम् उपागते विगलिता नीवी स्वयं बन्धनाद्
वासश् च श्लथमेखलागुणधृतं किञ्चिन् नितम्बे स्थितम् ।
एतावत् सखि वेद्मि केवलम् अहो तस्याङ्गसङ्गे पुनः
कोऽसौ कास्मि रतं च किं कीदृशम् इति स्वल्पापि मे न स्मृतिः ॥११७१॥
विकटनितम्बायाः । (स।क।आ। ५।४४, द।रू॥ उन्देर् २।१८, स्व् २१४७, शा।प। ३७४७, सू।मु। ८६।१७, सु।र। ५७२)
धन्यासि यत् कथयसि प्रियसङ्गमेऽपि
नर्मस्मितं च वदनं च रसं च तस्य ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण
सख्यः शपामि यदि किञ्चिद् अपि स्मरामि ॥११७२॥
विद्यायाः । (सा।द। उन्देर् ३।७३, शा।प। ३७६, सु।र। ५७४)
आत्ते वाससि रोद्धुम् अक्षमतया दोःकन्दलीभ्यां स्तनौ
तस्योरःस्थलम् उत्तरीयविषये सख्यो मया चिन्तितम् ।
श्रोणीं तस्य करेऽधिरोहति पुनर् व्रीडाम्बुधौ माम् अथो
मज्जन्तीम् उदतारयन् मनसिजो देवः स मूर्च्छागुरुः ॥११७३॥
बल्लणस्य । (सु।र। ५६८)
हर्षाश्रुपूरितविलोचनया मयाद्य
किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम् ।
रोमाञ्चकञ्चुकतिरस्कृतदेहया वा
ज्ञातानि तानि परिरम्भसुखानि किं वा ॥११७४॥
अचलदासस्य । (सु।र। ५९६, अचलस्य)
मा गर्वम् उद्वह कपोलतले चकास्ति
कान्तस्वहस्तलिखिता नवमञ्जरीति ।
अन्यापि किं न सखि भाजनम् ईदृशीनां
वैरी न चेद् भवति वेपथुर् अन्तरायः ॥११७५॥
केशटस्य । (अमरु ५५; सु।र। १६४०; सू।मु। ८६।१४; स्द् ३।१०५ मद; दश २।२२, एत्च्।; पद्या। ३०२, दामोदरस्य; भ।र।सि। २।४।१६५)
शुकोक्तिव्रीडा
प्रयच्छाहारं मे यदि तव रहोवृत्तम् अखिलं
मया वाच्यं नोच्चैर् इति गृहशुके जल्पति शनैः ।
वधूवक्त्रं व्रीडाभरनमितम् अन्तर् विहसितं
हरत्य् अर्धोन्मीलन्नलिनमलिनावर्जितम् इव ॥११७६॥
डिम्बोकस्य । (सू।मु। ७७।१२, सु।र। ६२२)
प्रत्यूषे गुरुसन्निधौ गृहशुके तत्तद्रहोजल्पितं
प्रस्तोतुं परिहासकारिणि पदैर् अर्धोदितैर् उद्यते ।
क्रीडाशारिकया निलीय निभृतं त्रोतुं भयार्तां वधूं
प्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः ॥११७७॥
मार्जारस्य । (सु।र। ६३१)
त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं
बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवम् ।
इत्य् अक्षुण्णमनोज्ञचाटुजनितव्रीडः पुरन्ध्रीजना
धन्यानां भवनेषु पञ्जरशुकैर् आहारम् अभ्यर्थ्यते ॥११७८॥
वाक्कूटस्य । (सु।र। ४०६)
उषसि गुरुसमक्षं लज्जमाना मृगाक्षीर्
अतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते ।
तिरयति शिशुलीलानर्तनच्छद्मताल
प्रचलवलयमालास्फालकोलाहलेन ॥११७९॥
भवभूतेः । (सु।र। ६१६)
दम्पत्योर् निशि जल्पतोर् गृहशुकेनाकर्णितं यद्वचस्
तत् प्रातर् गुरुसन्निधौ निगदतस् तस्योपहारं वधूः ।
कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटे
व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥११८०॥
अमरोः । (अमरु १५, कुवल् १७३, सु।र। ६२१, स्भ् २२१४, शा।प। ३७४३)