यत्नात् सङ्गमम् इच्छतोः प्रतिदिनं दूतीकृताश्वासयोर्
अन्योन्यं परितुष्यतोर् अवसरप्राप्तिस्पृहां तन्वतोः ।
सङ्केतोन्मुखयोश् चिरात् कथम् अपि प्राप्ते क्रमाद् दर्शने
यत् सौख्यं नवरक्तयोस् तरुणयोस् तत् केन साम्यं व्रजेत् ॥११६६॥
भट्टचूलितकस्य ।
स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणान् नेत्रयोस्
तत्साम्राज्यम् अखण्डितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम् ।
यद् बाला बलवन् मनोभवभयभ्रश्यत्त्रपं सत्रपा
तत्कालोचितनर्मकर्म दयितादम्यास्यम् अभ्यस्यति ॥११६७॥
कस्यापि । (सु।र। ५६४)
सव्रीडार्धनिरीक्षणं यद् उभयोर् यद् दूतिकाप्रेषणं
चाद्यश्वो भविता समागम इति प्रीत्या प्रमोदश् च यः ।
प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य्
एतत्कामफलं तद् एव सुरतं शेषः पशूनाम् इव ॥११६८॥
कस्यापि । (स्व् २२३७, शा।प। ३७८०, सु।र। १६५४)
सीत्कारवन्ति दरमीलितलोचनानि
रोमाञ्चमुञ्चि मकरकेतुनिकेतनानि ।
एणीदृशां मकरकेतुनिकेतनानि
वन्दामहे सुरतविभ्रमचेष्टितानि ॥११६९॥
कस्यचित् । (सु।र। ५८२)
हारावली त्रुटति न प्रणयः प्रियाणाम्
आखण्ड्यतेऽधरदलं न मनोभवाज्ञा ।
यस्मिन् विलेपनम् अपैति न चानुरागस्
तन् मोहनं न खलु मैथुनम् अन्यद् अस्मात् ॥११७०॥
केशटस्य ।