१३७ उषसि प्रियादर्शनम्

सम्भ्रान्त्या गलितस्रजं स्तनतटव्यस्तस्खलद्वाससो
बध्नन्त्याः शिथिलां झणत्कृतिमतीं काञ्चीं नितम्बस्थले ।
कामिन्याः सरसं निशान्तसमये वक्रा विलुप्ताञ्जना
नाधन्ये निपतन्ति पाठलरुचो निद्रालसा दृष्टयः ॥११५६॥

कस्यचित् ।

उषसि निबिडयन्त्याः कुण्डलं केलिपर्या
विलविगलितमन्तः कर्णपालि प्रियायाः ।
सरसहसिततिर्यग्भङ्गुरापाङ्गरीतिः
सुकृतिभिर् अवलीढा लोचनाभ्यां मुखश्रीः ॥११५७॥

रुद्रनन्दिनः ।

प्रियायाः प्रत्यूषे गलितकवरीबन्धनविधाव्
उदञ्च्द्दोर्वल्लीदरचलितलोलाञ्चलम् उरः ।
घनाकूते पश्यत्य् अथ मयि समन्दाक्षहसितं
नमन्त्यास् तद्रूपं यदि लिखितुम् ईशो मनसिजः ॥११५८॥

धोयीकस्य ।

मसृणमसृणं प्रेयः प्रातर् निवार्य वपुः स्वकं
तद् अनु च तिरोधाय स्वैरं रतोत्सवमण्डनम् ।
त्रिचतुरपदं गत्वा तस्मान् निवर्तितकन्धरं
स्नपयति दृशा पुण्यात्मानं कम् अप्य् उषसि प्रिया ॥११५९॥

शतानन्दस्य ।

अस्याः पाटलपाणिजाङ्कितम् उरो निद्राकषाये दृशौ
निर्धौतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।
काञ्चीदाम दरश्लथाञ्चलम् इति प्रातर् निखातैर् दृशोर्
एभिः कामशरैस् तदद्भुतम् अभूद् यन् मे मनः कीलितम् ॥११६०॥

जयदेवस्य ।