दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता
शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान् निर्गन्तुम् एवेहते
जाता वामतयैव सम्प्रति मम प्रीत्यै नवोढा प्रिया ॥११२६॥
श्रीहर्षदेवस्य । (न्न् ३।४, स्व् २०७२, सु।र। ४६९, शा।प। ३६७२, सू।मु। ७७।२)
चुम्बनेषु परिवर्तिताधरं
हस्तरोधि रशनाविघट्टने ।
विघ्नितेच्छम् अपि तस्य सर्वतो
मन्मथेन्धनम् अभूद् वधूरतम् ॥११२७॥
कालिदासस्य । (शा।प। ३६७६)
पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्य् अपहरति गात्राणि निभृतम् ।
न शक्नोत्य् आख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्य् अन्तः प्रथमपरिहासे नववधूः ॥११२८॥
अमरोः । (अमरु ३८, स्व् २०५६, स।क।आ।म् ५१२; शा।प। ३६७३; विस्ह्नुदस् तो उ।नी। ५।१९)
हस्तं कम्पयते रुणद्धि रशनाव्यापारलोलाङ्गुलीः
स्वौ हस्तौ नयति स्तनावरणताम् आलिङ्ग्यमाना बलात् ।
पातुं पक्ष्मलनेत्रम् उन्नमयतः साचीकरोत्य् आननं
व्याजेनाप्य् अभिलाषपूरणसुखं निर्वर्तयत्य् एव मे ॥११२९॥
कालिदासस्य । (म् ४।१५)
सखीनां शिक्षाभिः कथम् अपि गता वासभवनं
ततः प्रेमालापैः शयनम् उपनीतापि विमुखी ।
मयि क्रीडारम्भप्रणयिनि परं वेपथुमती
तथापीयं बाला हृदयम् अधिकं सम्मदयति ॥११३०॥
शङ्करधरस्य ।