अंसाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव्
आकृष्टे जघनांशुके कृतम् अधः संसक्तम् ऊरुद्वयम् ।
नाभीमूलनिबद्धचक्षुषि तया ब्रीडानताङ्ग्या प्रिये
दीपः फूत्कृतिवातवेपितशिखः कर्णोत्फलेनाहतः ॥११२१॥
कर्णोत्पलस्य । (सु।र। ५७०, शा।प। ३६७४)
समाकृष्टं वासः कथम् अपि हठात् पश्यति तदा
क्रमाद् ऊरुद्वन्द्वं जरठशरगौरं मृगदृशः ।
तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया
निरुद्धं हस्ताभ्यां झगिति निजनेत्रोत्पलयुगम् ॥११२२॥
कस्यचित् । (शा।प। ३६७७, सू।मु। ७७।५, सु।र। ५७९)
अम्बरं विनयतः प्रियपाणेर्
योषितश् चकोरयोः कलहस्य ।
वाराणाम् इव विधातुम् अभीक्ष्णं
कक्षया च वलयैश् च शिशिञ्जे ॥११२३॥
माघस्य । (स्व् १०।६२)
११२४११२५ न दत्तौ ।