१२९ कण्ठकूजितम्

कान्ते विचित्रसुरतक्रमबद्धरागे
सङ्केतकेऽपि मृगशावकलोचनायाः ।
तत्कूजितं किम् अपि येन तदीयतल्पं
नाल्पैः परीतम् अनुशब्दितलावकौघैः ॥१११६॥

रुद्रटस्य । (शृ।ति। १।२२ड़्)

कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्या
चातुर्यम् उद्धतमनोभवया रतेषु ।
तत्कूजितान्य् अनुवदद्भिर् अनेकवारं
शिष्यायितं गृहकपोतशतैर् यथास्याः ॥१११७॥

कस्यापि ।

१११८११२० न दत्ताः ।