राजन्ति कान्तनखरक्षतयो मृगाक्ष्या
लाक्षारसद्रवमुचः कुचयोर् उपान्ते ।
अन्तःप्रवृद्धमकरध्वजपावकस्य
शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥११११॥
कस्यापि । (सु।र। ६१२)
जयन्ति कान्तास्तनमण्डलेषु
विटार्पितान्य् आर्द्रनखक्षतानि ।
लावण्यसम्भारनिधानकुम्भे
मुद्राक्षराणीव मनोभवस्य ॥१११२॥
कस्यचित् । (स्व् १५४१, सु।र। ६१३)
पीनतुङ्गकठिनस्तनान्तरे
कान्तदत्तम् अबला नखक्षतम् ।
आवृणोति विवृणोति वीक्षते
लब्धरत्नम् इव निर्धनो जनः ॥१११३॥
कस्यचित् । (सु।र। ६१५)
नखक्षतं यन् नवचन्द्रसन्निभं
स्थितं कृशाङ्गि स्तनमण्डले तव ।
इदं तरीतुं त्रिवलीतरङ्गिणीं
विराजते पञ्चशरस्य नौर् इव ॥१११४॥
कस्यचित् । (सु।र। ६२३)
काश्मीरपङ्कखचितस्तनपृष्ठताम्र
पट्टावकीर्णदयितार्द्रनखक्षताली ।
एणीदृशः कुसुमचापनरेन्द्रदत्ता
जैत्रप्रशस्तिर् इव चित्रलिपिर् विभाति ॥१११५॥
दक्षस्य । (सु।र। ६२८)