दृशा सपदि मीलितं दशनरोचिषा निर्गतं
करेण परिवेपितं वलयकैस् तथा क्रन्दितम् ।
प्रियैः सपदि योषितां ननु विखण्ड्यमानेऽधरे
परव्यसनकातराः किम् उ न कुर्वते साधवः ॥११०६॥
कस्यचित् । (स्व् २०९७, शा।प। ३६८४, सू।मु। ७८।१३)
सलीलनिर्धूतकरारविन्द
सीत्कारसन्धुक्षितमन्मथायाः ।
जग्राह बिम्बाधरमूढरागं
रागं रमण्या हृदयं च कान्तः ॥११०७॥
रत्नाकरस्य ।
यद्दन्तदष्टदशनच्छदना चकार
सीत्कारम् आकुलितनेत्रयुगा मृगाक्षी ।
मन्ये तद् एतद् अधरामृतपानसेक
निर्वाप्यमाणविरहज्वरवह्निशब्दम् ॥११०८॥
जयकण्ठस्य ।
नान्दीपदानि रतिनाटकविघ्नशान्ताव्
आझाक्षराणि परमाण्य् अथवा स्मरस्य ।
दष्टेऽधरे प्रणयिना विधूताग्रपाणेः
सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥११०९॥
वामनस्य । (स।क।आ। २।३८१, द।रू। २।४०ब्, सू।मु। ७८।४)
सन्दष्टेऽधरपल्लवे प्रणयिना हस्ताम्बुजव्याधुति
प्रेङ्खित्काञ्चनन्कङ्कणावलिकलव्याहारमिश्रश्रियः ।
सीत्कारा हृदयस्पृशो रतिरणक्रीडासु वामभ्रुवां
राजन्ते विजयोद्धुरस्मरचमूक्ष्वेडा निनादा इव ॥१११०॥
युवतीसम्भोगकारस्य ।