१२६ चुम्बनम्

रसवद् अमृतं कः सन्देहो मधून्य् अपि नान्यथा
मधुरम् अधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृद् अपि पुनर् मध्यस्थः सन् रसान्तरविज्जनो
वदतु यद् इहान्यत् स्वादु स्यात् प्रियारदनच्छदात् ॥११०१॥

कस्यचित् । (स।क।आ। १।११०, स्व् १५११, सु।र। ५२९, शा।प। ३३१२, सू।मु। ५३।२१)

कियन्तं चित्कालं दशनपदभीताधरदलं
ललाटप्रस्वेदस्खलदलकम् उत्तालनयनम् ।
निषेधानुज्ञातं पुलकितकपोलं प्रियतमो
वधूवक्त्राम्भोजं रसयति च निर्वर्णयति च ॥११०२॥

अभिनन्दस्य ।

फलम् अलघु किं लीलावल्ल्या गृहं नु गुणश्रियाम्
अमृतमथवैकस्थं पिण्डीकृतं न रसायनम् ।
निधिर् उत रतेः सर्वस्वं वा विलासविधेः प्रियैर्
इति न ललनाबिम्बोष्ठानां रसः परिचिच्छिदे ॥११०३॥

शिवस्वामिनः ।

शून्यं वासगृहं विलोक्य शयनाद् उत्थाय किञ्चिच् छनैर्
निद्राव्याजम् उपागतस्य सुचिरं निर्वर्ण्य पत्युर् मुखम् ।
विस्रब्धं परिचुम्ब्य जातपुलकाम् आलोक्य गण्डस्ह्तलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥११०४॥

अमरोः । (अस् ६८, स्व् २११३, सा।द॥ १।३)

सन्दष्टाधरपल्लवा सचकितं हस्ताग्रम् आधुन्वती
माम् आमुञ्च शठेति कोपवचनैर् आनर्तितभ्रूलता ।
शीत्काराञ्चितलोचना सरभसं यैश् चुम्बिता मानिनी
प्राप्तं तैर् अमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥११०५॥

[अमरु ३२, स्भ् १३०३, शा।प। ३६६८]