उद्भिन्नसात्त्विकविकारपरिप्लवानि
सद्यस् तिरस्कृतमनोभववेदनानि ।
तन्वि त्वद गपरिरम्भसुखामृतानि
प्रादुर्भवन्तु पुनरागतजीवितानि ॥१०९६॥
कस्यचित् । (क्स् ८।८२)
समैव सर्वत्र चरित्रपद्धतिर्
निजः पुरो वा गुणिनां न विद्यते ।
चकार हारः … … … … … … …
यतः परीरम्भविधौ द्वयोर् अपि ॥१०९७॥
नारायणस्य ।
द्रष्टुं केतकगर्भपत्रसुभगाम् ûरुप्रभाम् उत्सुकस्
तत्संवाहनलीलया च शनकैर् उत्क्षिप्तचण्डातकः ।
लज्जामुग्धविलोचनं स्मितसुधानिर्धौतबिम्बाधरं
किञ्चिद् विश्लथबाहुबन्धनम् असाव् आलिङ्गितो बालया ॥१०९८॥
कस्यचित् । (सु।र। ६०१)
भयमुकुलितचक्षुः सन्ततोत्कम्पनीवी
मणिमुखरितकाञ्चिः श्वासशुष्यन्मुखश्रीः ।
अशिथिलभुजबन्धन्यासनिःशङ्कलग्ना
मम वपुषि विशन्तीवायताक्षी धिनोति ॥१०९९॥
उमापतिधरस्य ।
आनन्दानतमीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि
ज्ञातोऽसि प्रकटप्रकम्पपुलकैर् अङ्गैः स्थितं मुग्धया ।
मुञ्चैनां जड किं न पश्यसि गलद्बाष्पाम्बुधौताननां
सख्यैवं गदिते विमुच्य रभसात् कण्ठे विलग्नो मया ॥११००॥
कस्यापि ।