१२३ मधुपानम्

अर्धपीतमदिरा मणिपारी
शोभतां कथम् अतीव तरुण्याः ।
चुम्बितैर् अधिकपाटलभासा
पूरिताधरमयूखभरेण ॥१०८६॥

जयमाधवस्य । (स्व् २०१७)

सङ्क्रान्तम् आननम् अवेक्ष्य मृगेक्षणायाः
पर्यां चलन्नयनमासवपूरितायाम् ।
सेन्दीवरं कमलम् इत्य् अवगम्य दूराद्
भृङ्गो ममज्ज सहसैव यथार्थनामा ॥१०८७॥

काश्मीरप्रचण्डमाधवस्य । (स्व् २०२०)

कान्ताननाधररसामृततृष्णयेव
बिम्बं पपात शशिनो मधुभाजने यत् ।
निःशेषिते मधुनि लज्जितचित्तवृत्ति
तत् तन्मुखाब्जजितकान्तितया विनष्टम् ॥१०८८॥

विभाकरशर्मणः । (स्व् २०१८, सू।मु। ७३।५)

पीतस् तुषारकिरणो मधुनैव सार्धम्
अन्तः प्रविश्य चषके प्रतिबिम्बवर्ती ।
मानान्धकारम् अपि मानवतीजनस्य
नूनं बिभेद यद् असौ प्रससाद सद्यः ॥१०८९॥

[अमरु ४९, स्भ् २०२२, शा।प। ३६४८]

ललितकण्ठनिवेशितदोर्लतः
करतलाकलितैकपयोधरः ।
मृगदृशो दशनच्छदवासितं
मधु पपौ मदनोत्सव ईश्वरः ॥१०९०॥

मुञ्जस्य ।