१२२ नायिकाचाटुः

पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोर्
नीलेन्दीवरशङ्कया नयनयोर् बन्धूकबुद्ध्याधरे ।
लीयन्ते कवरीषु बान्धवजनव्यामोहजातस्पृहा
दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥१०८१॥

पाणिनेः । (सु।र। ४५१, सू।मु। ६५।१०)

शोणस् तेऽधरपल्लवो मधुमती कान्तिर् गिरो नर्मदा
दृष्टिर् दिव्यतरङ्गिणीव वदनश्रीश् चन्द्रभागोपमा ।
गम्भीरा नलिनाक्षि नाभिर् अपि चेत् तद् देहदाहज्वर
च्छेदाय क्षणमात्रम् अम्बुजमुखि त्वं बाहुदा मे भव ॥१०८२॥

दङ्कस्य ।

मुग्धे नार्जुनतां जहाति नयनं मध्ये तथा कृष्णतां
द्वे रूपे दधतामुना विरचितः कर्णेन ते विग्रहः ।
तत् कृष्णार्जुनकर्णविग्रहवती साक्षात् कुरुक्षेत्रतां
यातासि त्वदवाप्तिर् एव तरुणि श्रेयः किम् अन्यत् परम् ॥१०८३॥

सत्यबोधस्य ।

तव नयनवन् नीलाम्भोजं तवाननवच् छशी
तव हसितवज् ज्योत्स्नाद्योतस् तवोदितवत् सुधा ।
सुभगमधुराभोगैस् तव वराङ्गकवीक्षितैः
प्रणयिनि जगत्सम्भाराणां त्वम् इत्य् उपमास्पदम् ॥१०८४॥

प्रियंवदस्य ।

स्वर्गे स्वर्गाद् अपि समधिके साधनं बोधयन्तः
सन्तु प्रीत्यै मम पुनर् अमी तन्वि खेदाय वेदाः ।
येषां मध्ये कथयति न चेद् ईदृशः कोऽप्य् उपाय
खेदापायः प्रणयिवचनप्रेष्यतां येन यामि ॥१०८५॥

सागरस्य ।