१२० दृष्टिः

निरवधिरकूपारः पीतः पुरा मुनिना मुहुर्
निजकरपुटोत्सङ्गेनेदं मृषोद्यम् अभूद् अपि ।
यदि न विदुषां धैर्याम्भोधिं गभीरम् अवज्ञया
नयननलिनीनालाकृष्टं पिबन्ति मृगदृशः ॥१०७१॥

धर्मयोगेश्वरस्य ।

प्रेयांसम् ईक्षितुम् अथेक्षणतारकस्य
दूराद् अपाङ्गपदवीम् अभिधावतोऽस्याः ।
आनन्दबाष्पजलबिन्दुनिभेन सान्द्राः
स्वेदाम्बुसीकरकणा इव सन्निपेतुः ॥१०७२॥

कस्यचित् ।

विस्फाराः प्रथमं कुतूहलवशाद् उत्क्षिप्तपक्ष्मश्रियो
जातव्रीडम् अथो विनम्रसरलाः किञ्चिद् विलोलास् ततः ।
अभ्यासं पुनर् आकलय्य कलया कान्तं कुरङ्गीदृशां
सिञ्चन्तीव सुधाच्छटाभिर् अनृजुप्रागल्भ्यगर्भा दृशः ॥१०७३॥

वीर्यमित्रस्य ।

यद् भान न मदनो न विदन्ति दूत्यो
वाग्देवतापि न सुखं यद् अपि व्यनक्ति ।
तत्कूटगर्वितदरस्फुटभावभाजो
व्याकुर्वते मृगदृशां दृश एव तत्त्वम् ॥१०७४॥

कस्यचित् ।
आश्चर्यस्तिमिताः क्षणं क्षणम् अथ प्रीतिप्रमीलत्पुटा
वातान्दोलितपङ्कजातसुमनःपीयूषधारामुचः ।
एताः कस्य हरन्ति हन्त न मनः किञ्चित् त्रपामञ्जुल
प्रेमप्रेरणम् अत्र मुग्धमुरचत्तारोत्तरा दृष्टयः ॥१०७५॥

शङ्करधरस्य ।