११९ द्यूतम्

आश्लेषचुम्बनरतोत्सवकौतुकानि
क्रीडा दुरोदरपणः प्रतिभूर् अनङ्गः ।
भोगः स यद्यपि जये च पराजये च
यूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव ॥१०६६॥

मुरारेः । (अर् ७।११५, शा।प। ३६६१, सू।मु। ७५।७, सु।र। ६०६)

आश्लेषः प्रथमं क्रमेण विजिते कृत्ये धनस्यार्पणं
केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
अन्तर्गाढविगूढमन्मथस्फारीभवद्गण्डया
स्वैरं शारिविसारणाय निहितः खेदाम्बुगर्भः करः ॥१०६७॥

योगेश्वरस्य । (सु।र। ६०५, शा।प। ३६६४, सू।मु। ७५।५)

तथा गृहीतस् तन्वङ्ग्या
विजयोपार्जितः पणः ।
यथा धन्याधरोष्ठेन
हारितोऽपि जितं मया ॥१०६८॥

कस्यचित् ।

अक्षदेव न पणीकृतेऽधरे
कान्तयोर् जयपराजये सति ।
अत्र वेति यदि वक्ति मन्मथः
कस् तयोर् जयति जीयतेऽपि वा ॥१०६९॥

काश्मीरकजयवर्धनस्य । (स्व् २०४८, सू।मु। ७५।८)

सोत्कण्ठा च पराङ्मुखी च पुरतो बाला सखीकौशलाद्
अक्षद्यूतविधौ विजित्य मदनक्रीडापणं प्रेयसः ।
सानन्दा जयतोऽपि जृम्भितघनव्रीडापि सम्भोगितः
सन्त्यक्तुं न च याचितुं न च परिच्छेदे बभूव प्रभुः ॥१०७०॥

जलचन्द्रस्य ।