११७ नृत्यम्

रम्यं गायतु वा तरङ्गयतु वा व्यावर्तनैर् भ्रूलते
व्यालोलं नयनं च नर्तयतु वा क्षुण्णः स एष क्रमः ।
शृङ्गारं पुनर् आतनोति मधुरव्यावर्तना नर्तकी
प्रत्यङ्गं रसपेशलानि करणान्य् आधाय यन् नृत्यति ॥१०५६॥

प्रियंवदस्य ।

विलोला भ्रूवल्ली मसृणतरला दृष्टिर् अधरः
स्मितस्निग्धो धीरा गतिर् अलसम् एवाङ्गचलनम् ।
स्वभावप्रव्यक्तोन्नतनतविभागा तनुलता
विभावो लास्येन स्फुरति कतरोऽस्या मृगदृशः ॥१०५७॥

उमापतिधरस्य ।

वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामा विटपसदृशं स्रस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृत्यादस्याः स्थितम् अतितरां कान्तम् ऋज्वायतार्घम् ॥१०५८॥

कालिदासस्य । ((मालविकाग्निमित्र २।६)

अङ्गैर् अन्तर् निहितवचनैः सूचितः सम्यग् अर्थः
पादन्यासो लयम् अनुगतस् तन्मयत्वं रसेषु ।
शाखायोनिर् मृदुर् अभिनयस् तद्विकल्पानुवृत्तौ
भावो भावं नुदति विषयाद्राग् अबन्धः स एव ॥१०५९॥

तस्यैव । (मालविकाग्निमित्र २।८; सू।मु। १०९।७३)

ननृतुर् अनतिखेदं कौशिकीवृत्तिचञ्चच्
चटुलचरणचारीचारुचित्राङ्गहावाः ।
निजहृदयनिमज्जन्मारनाराचसाची
कृतवदनविनिद्राम्भोजभाजो युवत्यः ॥१०६०॥

हरेः ।