११६ वाद्यम्

पुरन्ध्रीणां पीनैस् तुलितपरिणाहस्तनतटैर्
द्रुतं सम्मृज्यन्तां करकिसलयैर् झर्झरपुटाः ।
कलं गुञ्ज मुग्धं पिबतु मधुदिग्धाधरदलं
मुखं नीलो वेणुः कमलम् इव माला मधुलिहाम् ॥१०५१॥

विशाखदत्तस्य ।

धत्ते व्यक्तिं रसितम् असकृज् जर्जरं झर्झराणां
स्तोकोत्तुङ्गध्वनितलहरीभेरिका नानदीति ।
धीरैः स्निग्धैः करकिसलयैर् आहताः किन्नराणां
शब्दायन्ते नवघनघटामन्द्रनादं मृदङ्गाः ॥१०५२॥

उमापतिधरस्य ।

नान्तःकर्षन्ति केषां कृतपदरचनैः पामरग्रामनारी
वक्षोजोत्तुङ्गतुम्बीफलनिहतमृदूत्सर्पिगम्भीरशब्दैः ।
उद्गीताः शृङ्गकोटीस्थगितकरशिखालोलकल्लोलवीणा
तन्त्रीक्वाणानुरूपध्वनिभिर् अभिनयव्याहृताः काव्यबन्धाः ॥१०५३॥

कस्यचित् ।

वक्षोजाभोगगुर्वोर् मुखरयति युगं कांस्ययोः कापि कान्ता
प्रयोदत्तव्रणालीविधुरितमधुरं वेणवे कापि दत्ते ।
काचित् कृत्वाङ्गभङ्गं प्रसृतमुदम् इव स्निग्धमुग्धप्रणादं
वारं वारं कराभ्यां प्रहरति मुरजं गीतसंवादरम्यम् ॥१०५४॥

कालिदासनन्दिनः ।

वीनया च निनदेन च वेणोः
केकया च फलकण्ठगिरा च ।
शीत्कृतैश् च रणितैश् च वधूनां
भुञ्जते श्रुतिसुखानि युवानः ॥१०५५॥

राजशेखरस्य ।