११५ नायकागमनम्

सङ्कीर्णं शयनीयम् अर्पय कुरु द्वेधोपधानक्रियाम्
अभ्यासे कुरु तालवृन्तकम् इति व्यापारयन्त्या सखीम् ।
आयातस्य पुनर्विलासभवनं कन्दर्पदीक्षागुरोर्
अभुत्थानम् अपि प्रमोदजडया नाविष्कृतं सुभ्रुवा ॥१०४६॥

जलचन्द्रस्य ।

द्वारागतं काप्य् अवगम्य कान्तम्
उन्नम्य वक्त्रं सिचयाञ्चलेन ।
विमुञ्चती मण्डनकर्मदीर्घं
यथायथात्मानम् अलञ्चकार ॥१०४७॥

राजशेखरस्य ।

काप्यागतं वीक्ष्य मनोधिनाथं
समुत्थिता सादरम् आसनाय ।
करेण शिञ्जद्वलयेन तल्पम्
आस्फालयन्ती कलमाजुहाव ॥१०४८॥

तस्यैव ।

प्रियतमम् अवलोक्य स्वाशरयाद् उत्पतन्त्याः
सरभसम् अपरस्याः पादमूले सलीलम् ।
अपतद् अथ कराग्राद् अच्छरत्नात्मदर्शः
शशधर इव वक्त्रच्छायया निर्जितश्रीः ॥१०४९॥

कस्यचित् ।

द्वार्पान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समापादितम् ।
आनीतं पुरतः शिर्ॐशुकम् अधः क्ÿप्ते चले लोचने
वाचस् तच् च निवारितं प्रसरणं सङ्कोचिते दोर् लते ॥१०५०॥

कस्यचित् ।