निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्र दूरम् अनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् ॥१०३६॥
सुविभोकस्य । (स।क।आ। ४।२३६, स्द् उन्देर् २।२३, सू।मु। ४८।२, सु।र। ८३७)
स्वकार्यबुद्ध्यैव सदा मदर्थे
दूति प्रवृत्तिं प्रतिपालयन्त्या ।
त्वया फलेनैव विभावितोऽयं
मया सहाभिन्नशरीरवादः ॥१०३७॥
छित्तोकस्य । (सु।र। ८५३)
अधरो वीतरागस् ते कषाये तव लोचने ।
विहारः कण्ठदेशस् ते दूति प्रव्रजितासि किम् ॥१०३८॥
भिक्षोः । (सु।र। ८४०)
साधु दूति पुनः साधु
कर्तव्यं किम् अतः परम् ।
यन् मदर्थे विरुग्णासि
दन्तैर् अपि नखैर् अपि ॥१०३९॥
तस्यैव । (सु।र। ८३९)
किं त्वं निगूहसे दूति
स्तनौ वक्त्रं च पाणिना ।
सव्रणा एव शोभन्ते
वीराधरपयोधराः ॥१०४०॥
कस्यचित् । (स्व् १४२८, शा।प। ३५१०)