स्मितमधुस्नपिताधरपल्लवाम्
अभिनवोल्लसितस्तनकुड्मलाम् ।
गुणफलां त्वम् इमाम् अबलालतां
तरुर् इवोद्वह पुष्पवतीं लताम् ॥१०३१॥
कस्यचित् ।
गृहीतं ताम्बूलं परिजनवचोभिर् न कथम् अपि
स्मरत्य् अन्तःशून्या सुभग विगतायाम् अपि निशि ।
ततेवास्ते हस्तः कलितफणिवल्लीकिसलयस्
तथवास्यं तस्याः क्रमुकफलफालीपरिचितम् ॥१०३२॥
बिल्हणस्य । (शा।प। ३४७५, पद्या। १८७ हरिहरस्य, उ।नी। १३।५९)
त्वं शीतलो न व्यजनानुरागी
दूरान्तरस् तापवती च कान्ता ।
कामं न शक्ता शरदं विषोढुं
स्थाने समाकाङ्क्षति सा हि मर्तुम् ॥१०३३॥
शब्दार्णवस्य ।
विकसिताधरम् आयतलोचनं
पिब रहस्य् अभिरामम् इदं मुखम् ।
रुचिरपत्रविलम्बितकेशरं
मधुकरः सरसीव सरोरुहम् ॥१०३४॥
कस्यचित् ।
नागवल्लिरुधिरोहतु पूगं
रात्रिर् एणतिलकेन समेतु ।
त्वाम् असौ भजति कोकिलकण्ठी
वाचम् अर्चतु कवेः सुकृतोऽर्थः ॥१०३५॥
राजशेखरस्य ।