प्रियतमभुजपञ्जरोपगूढा
शशितिलकेषु विभावरीमुखेषु ।
अनुभवमदविभ्रमोपदिष्टान्य्
अविनयदुर्ललितानि मन्मथस्य ॥१०२६॥
कस्यचित् ।
स्तनयुगवहनालसं च मध्यं
चरणयुगं च नितम्बभारखिन्नम् ।
यदि वहसि बिभर्षि किं वृथैकं
हृदयम् इदं दयितानुरागशून्यम् ॥१०२७॥
कस्यचित् ।
सुलभम् अनृजु जीवितान्य् अनित्यान्य्
अतिसुभगे व्यतिपाति यौवनं च ।
अनुभवफलम् आत्मनो गुणानां
दिवि सुखम् अस्ति न चापरोक्षम् एतत् ॥१०२८॥
कस्यचित् ।
यदि बृहज्जघनापघना तनुर्
यदि च दीर्घविलोचनम् आननम् ।
इदम् उपैति रतेर् अभिधेयतां
वहति कस्य कृते मदनो धनुः ॥१०२९॥
कस्यचित् ।
स्तनयुगम् असिताक्षि सुन्दरीणां
भवति ततः शुभम् अप्य् अबन्ध्यशोभम् ।
यदि किल लभते प्रियार्पितानां
रसम् उपगूहनपीडनामृतानाम् ॥१०३०॥
कस्यचित् ।