उत्तिष्ठ यदि जीवन्तीं माम् इच्छसि तम् आनय ।
अहं नेतुम् अशक्यापि सुदूरम् इदम् अन्तरम् ॥१०२१॥
कस्यचित् ।
कामं निष्करुणं वेत्सि वेत्सि तं बहुवल्लभम् ।
दूति चूताङ्कुरखरा दिशो वेत्सि न वेत्सि किम् ॥१०२२॥
कस्यचित् ।
जीवितं जलतरङ्गविलोलं
यौवनं त्रिचतुराणि दिनानि ।
शारदभ्रतरला तनुकान्तिः
गच्छ दूति वद सत्वरम् एतत् ॥१०२३॥
कस्यचित् ।
यस्मिन् बाष् बाष्पतरङ्गिताश्रुकलुषा दृष्टिर् न सिद्धिं गता
नो हस्तेन विवर्तमानवलयेनालिङ्गितो न स्थितः ।
येन स्त्रीहृदयस्य पद्ममृदुनः सम्भावितो नात्ययस्
तं गत्वा हृदयं किम् अश्मसदृशं त्वं दूति वक्तुं क्षमा ॥१०२४॥
कस्यचित् । (स्व् ११८७)
दूति त्वं तरुणी युवा स चपलः श्यामास् तमोभिर् दिशः
सङ्केतः सरहस्य एष विपिने सङ्केतकावासकः ।
भूयो भूय इमे वसन्तमरुतश् चेतो नयन्त्य् अन्यथा
गच्छ क्षेमसमागमाय निपुणं रक्षन्तु ते देवताः ॥१०२५॥
शीलाभट्टारिकायाः । (स्व् ११८८, शा।प। ३४३९, सू।मु। ४१।११)