वक्त्रेन्दुर् मृगलाञ्छनेन वलितः पत्रावलीसङ्गमात्
कण्ठे कम्बुविडम्बिनि द्विगुणितास् तारापहारस्रजः ।
दोर्वल्लीयुगले मृणालसुहृदि ग्रन्थिभ्रमायाङ्गदं
मन्ये भूषणम् एव दूषणपदे तत् प्राप्य तस्या वपुः ॥१०१६॥
विरिञ्चेः ।
कौसुम्भं कुचकुम्भयोर् निवसनं सौवर्णिकं कर्णयोस्
ताडङ्कद्वयम् आञ्जनी नयनयोर् आलेख्यलेखालिपिः ।
काश्मीरेण तमालपत्रम् अलिके हैमी करे कङ्कण
श्रेणिः पाशयितुं जगन्त्य् अलम् अलङ्काराः कुरङ्गीदृशः ॥१०१७॥
उमापतिधरस्य ।
दीर्घापाङ्गं नयनयुगलं भूषयत्य् अञ्जनश्रीस्
तुङ्गाभोगौ प्रभवति कुचाव् अर्चितुं हारयष्टिः ।
मध्यक्षामे वपुषि लभते स्थाम कूर्पासलक्ष्मीः
श्रोणीबिम्बे गुरुणि रशनादामशोभां बिभर्ति ॥१०१८॥
कस्यचित् ।
कण्ठे मौक्तिकमालिका स्तनतटे कार्पूरमध्यं रजः
सान्द्रं चन्दनम् अङ्गके वलयिता पाणौ मृणालीलता ।
तन्वी नक्तम् इयं चकास्ति शुचिनी चीनांशुके बिभ्रती
शीतांशोर् अधिदेवतेव गलिता व्योमाग्रम् आरोहितः ॥१०१९॥
राजशेखरस्य । (वि।शा।भ। ३।१६, सु।र। ३८५)
इन्दोश् चन्दनबिन्दुनैव दशनच्छायं तदीयं मुखं
चक्रं लोचनभल्लमार्जनविधौ शाणस्य तत् कुण्डलम् ।
भिन्नानां कुचकन्दरा स्मितसुधाकुल्येव मुक्तावली
पादाब्जे ध्वनदिन्द्रनीलवलयं रोलम्बमालैव सा ॥१०२०॥
शाण्डिल्यस्य ।