आयासश्लथबाहुवल्लिर् अधिकस्मेरै …
लोलापाङ्गकपोलपालिर् अलिकस्तोमार्धलुप्तालका ।
न्यस्यन्ती मदयत्य् अनावृत इव प्रच्छादनायाञ्चलं
मुग्धा स्वेदनिपीतसूक्ष्मसिचयव्यक्तस्तनी वक्षसि ॥१०११॥
तुङ्गोकस्य ।
अम्भोभिस्तनकुम्भयोस् तव घनश्लेषात् समुत्कीर्णतां
याताया शुकवक्रिमप्रणयिनी सेयं न लुप्ता लिपिः ।
किं चैतां कुसुमेषु कुञ्जरशिरोनक्षत्रमालां तिरो
धित्सुर्निष्फलम् एव मज्जसि नभः स्वच्छे सरोवारिणि ॥१०१२॥
धर्माशोकदत्तस्य ।
मुग्धाङ्गना कापि सरोजपत्रे
विलोलिताम्भःकणिकां विलोक्य ।
प्रसारयामास जवेन पाणिं
ससम्भ्रमं मौक्तिकशङ्कयेव ॥१०१३॥
वल्लभदेवस्य । (स्व् १८७५)
बिभ्राणास् तोयलग्नं वसनमरशनादामनि श्रोणिभारे
दूराद् अन्योन्यसाचिस्मितचतुरसखीकामिभिर् वीक्ष्यमाणाः ।
उत्तेरुस् तीरलेखां विपुलकमलिनीपत्रम् ईषद् विलक्षा
वक्षोजाग्रेषु कृत्वा हरिणशिशुदृशो वीतचीनांशुकेषु ॥१०१४॥
धोयीकस्य ।
मोक्तुं स्नानांशुकानि स्मररभसरसस्यानुकूलैर् दुकूलैः
संस्कर्तुं केशपाशान् अगुरुसुरभिणा धूपधूमोद्गमेन ।
ताम्बूलोल्लेखरेखाम् अपि विरचयितुं धौतपृष्ठेऽधरोष्ठे
तीरोत्तीर्णास् तरुण्यः क्षणम् उपविविशुर् वल्लिकेलीगृहेषु ॥१०१५॥
राजशेखरस्य ।