उज्झन्त्यः स्वर्णकाञ्चीर् झणिति रशनया चम्पकन्यासमय्या
तन्वत्यस् तारहारान् विचकिलकलिकापङ्क्तिमुद्रावलीभिः ।
किं चाशोकप्रवालैर् अरुणमणिमयान् सन्त्यजन्त्योऽवतंसान्
उत्कीर्णाः कामबाणैर् इव हृदि सुहृदो वल्लभानां बभूवुः ॥१००६॥
राजशेखरस्य ।
दूरोदञ्चितबाहुमूलविलसच्चीनप्रकाशस्तना
भोगव्यायतमध्यलम्बिवसना निर्मुक्तनाभीह्रदा ।
आकृष्टोज्झितपुष्पमञ्जरिरजःपातावरुद्धेक्षणा
चिन्त्वत्याः कुसुमं धिनोति सुदृशः पादाग्रदुःस्था तनुः ॥१००७॥
उमापतिधरस्य ।
कङ्केलिर् एष किम् अचेतन एव सत्यं
नम्नः स्वयं न कुसुमानि ददाति यस्ते ।
धूर्तोऽथवा नमति नायम् उदस्तबाहु
व्यक्तोन्नतस्तनतटान्तदिदृक्षयेव ॥१००८॥
तस्यैव ।
एतस्मिन् सुतनु लतागृहेऽतिरम्यं
मालत्याः कुसुमम् अनाचितं परेण ।
इत्य् उक्त्वा मृदुकरपल्लवं गृहीत्वा
मुग्धाक्षीं रहसि निनाय कोऽपि धूर्तः ॥१००९॥
जयमाधवस्य ।
तासां पीनस्तनकलसयोः स्थूलमुक्ताभिरामा
वेणीभूतास् त्रिवलिविषमे तिर्यगायामभाजः ।
वक्त्रे लोलालकविलुलिताः केतकक्षोदलक्ष्मीं
प्राप्ताः क्रीडावनविहरणे बिन्दवः स्वेदवाराम् ॥१०१०॥
धोयीकस्य ।