ताडीदलं यद् अकठोरम् इदं यद् एषा
मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः ।
यद् बन्धनं विसलता तन्तन्तुभिश् च
कस्याश्चिद् एष गलितस् तद् अनङ्गलेखः ॥१००१॥
कस्यचित् । (वि।शा।भ। ३।२१, सु।र। १६९१)
पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदाम्बुभग्नश्रियस्
तत्कृत्याकृतिलेशतो मनसि ते किञ्चित् प्रतीतं गताः ।
वैचित्र्यापुनर् उक्तलाञ्छनभृतः खण्डेन वामेन वा
व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः ॥१००२॥
राजशेखरस्य । (वि।शा।भ। ३।२२, सु।र। १६९०)
कृतसरलमृणालीसूत्रसन्तानबन्धः
कुचमुकुलमुखाङ्कश् चन्दनोपात्तमुद्रः ।
स्मरशबरशराणाम् एष लक्ष्यीभवन्तीं
कथयति ननु लेखस् तम् अनुद्घाटितोऽपि ॥१००३॥
कस्यचित् ।
तुल्यानुरागपिशुनं ललितानुबन्धं
पत्रे निवेशितम् उदाहरणं प्रियायाः ।
उत्पश्यतो मम सखे मदिरेक्षणायास्
तस्याः समागतम् इवाननमाननेन ॥१००४॥
कालिदासस्य । (विक् २।१३)
क्वापि स्वेदकणानिपातमसृणं कुत्रापि कम्पस्खलत्
पाणिव्यस्तलिपि क्वचिद् घनपतद्बाष्पाम्बुलिप्ताक्षरम् ।
क्वापि श्वासमहोर्मिमर्मरम् इदं ताडङ्कताडीदलं
वर्णैर् एव विना व्यनक्ति सुदृशो भावैकतानं मनः ॥१००५॥
उमापतिधरस्य ।