अप्य् आमीलितपङ्कजां कमलिनीम् अप्य् उल्लसत्पल्लवां
वासन्तीम् अपि सौधभित्तिपतिताम् आत्मप्रतिच्छायिकाम् ।
मन्वानः प्रथमं प्रियेति पुलकस्वेदप्रकम्पाकुलं
प्रीत्यालिङ्गति नास्ति सेति न पुनः खेदोत्तरं मूर्च्छति ॥९९६॥
कस्यचित् ।
नियमितम् अपि मानसं तपोभिः
प्रविशति वैशसवारिधावगाधे ।
अयम् अपि चिरविस्मृतोऽपि धैर्यं
व्यपनयतीव पुनर् मनोविकारः ॥९९७॥
कस्यचित् ।
व्याधूतं पवनेन पल्लवम् इदं तस्याः क्रुधा नाधरः
स्रंसन्ते कुसुमान्य् अमूनि न पुनर् बाष्पाम्भसां बिन्दवः ।
एषां झाङ्कृतिर् आकुला मधुलिहाम् आर्तो न मन्युध्वनिर्
धिक् कष्टं द्रुमसङ्गता मृदुर् इयं वल्ली न मे वल्लभा ॥९९८॥
श्रीलक्ष्मणसेनदेवस्य ।
क्वाकृत्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणाम् उपशान्तये श्रुतम् अहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्य् अपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यम् उपैहि कः खलु युवा धन्योधरं पास्यति ॥९९९॥
कस्यचित् । (स।क।आ। १।१७७, स्व् १३४३, सा।द। उन्देर् ३।२४०, सू।मु। ४३।३०)
अमी कारागारे निविडनलिनीनालनिगडैर्
निबध्यन्तां हंसाः प्रथमविसकन्दाङ्कुरभिदः ।
नवे वासन्तीनाम् उदयिनि वने गर्भकलिका
च्छिदो निर्धार्यन्तां परभृतयुवानो मदकलाः ॥१०००॥
कस्यचित् ।