१०४ मेघोपालम्भः

पाथोवाह किम् अम्बुभिः प्रियतमानेत्राम्बुसिक्ता मही
किं गर्जैः सुतनोर् अमन्दरुदितैर् उज्जागरा भूर् अपि ।
वातैः शीकरिभिः किम् इन्दुवदनाश्वासैः सबाष्पैर् अलं
सर्वं ते पुनरुक्तम् एतद् अपुनःपूर्वा पुनर् मद्व्यथा ॥९९१॥

देवबोधस्य ।

नो रुद्धं गगनं पयोदपटलै रुद्धप्रियावाञ्छितं
नो शीर्णाः कमलाकराः कृशतनोः शीर्णा मनोवृत्तयः ।
नो पूरः सरिताम् अपूरि दयितानेत्राम्बुकल्लोलिनी
धिग् धिङ् मारकदर्थितां व्यथयता पाथोभृता किं कृतम् ॥९९२॥

तस्यैव ।

आक्रन्दाः स्तनितैर् विलोचनजलान्यश्रान्तधाराम्बुधिस्
तद्विच्छेदभुवश् च शोकशिखिनस् तुल्यास् तडिद्विभ्रमैः ।
अन्तर् मे दयितामुखं तव शशी वृत्तिः समैवावयोस्
तत् किं माम् अनिशं सखे जलधर त्वं दग्धुम् एवोद्यतः ॥९९३॥

यशोधर्मणः । (सु।र। २४०, सू।मु। ४३।३३)

हंसानां गतयो हृता यदि तया कूजन्त्व् अमी सोत्सुकास्
तत्केशैर् हृतबर्हकान्तय इमे नृत्यन्तु वा बर्हिणः ।
लावण्यं हृतम् अस्य दग्धशशिनस् तापं करोत्व् एष मे
यूयं गर्जथ यन् निरागसि मयीत्य् एतन् न युक्तं घनाः ॥९९४॥

कस्यचित् ।

दग्धा पूर्वम् अहं वसन्तसमये चूताङ्कुरैः कोकिलैः
प्रायः प्रावृषि गर्जितैः किम् अपरं कर्तव्यम् अद्य त्वया ।
दीना कान्तवियोगदुःखविधुरा क्षामा तनुर् वर्तते
क्षारं प्रक्षिपसि क्षते जलधर प्राणावशेषस्थितेः ॥९९५॥

कस्यचित् ।