नाथानङ्ग निदेशवर्तिनि जने कस् तेऽभ्यसूयारसश्
चापारोपितसायकस्य भवतः को नाम पात्रं रुषः ।
विश्राम्यन्तु शरा निषीदतु धनुः शिञ्जापि संयम्यतां
माकन्दाङ्कुरकोमले मनसि नः को बाणमोक्षग्रहः ॥९८६॥
गोवर्धनस्य ।
देवेन प्रथमं जितोऽसि शशभृल्लेखभृतानन्तरं
बुद्धेनोद्धतबुद्धिना स्मर ततः कान्तेन पान्थेन मे ।
त्व्यक्त्वा तान् बत हंसि माम् अपि कृशां बालाम् अनाथां स्त्रियं
धिक् त्वा धिक् तव पौरुषं धिग् उदयं धिक् कार्मुकं धिक् शरान् ॥९८७॥
विद्यायाः । (सु।र। ७०१)
आपुङ्खाग्रम् अमी शरा मनसि मे मग्नाः समं पञ्च ते
निर्दग्धं विरहाग्निना वपुर् इदं तैर् एव सार्धं मम ।
कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो
दुःखी स्याम् अहम् एक एव सकलो लोकः सुखं जीवतु ॥९८८॥
राजशेखरस्य । (सु।र। ७७१)
हरसि हृदयं वेगाद् अन्तः प्रविश्य शरीरिणाम्
अथ जनयसि क्रीडाहेतोर् विकारपरम्पराम् ।
वितरसि मुहुर् मोहं पश्चान् निकृन्तसि जीवितं
कितव किम् इयं चेष्टा लोके तवार्थजनोचिता ॥९८९॥
गोशरणस्य ।
कष्टं हृदि ज्वलति शोकमयो ममाग्निस्
ते चक्षुषी च विरहज्वरजागरुके ।
एतन् मनो भ्रमति विष्वगसूंस् तथापि
त्वं पश्यतोहर इव स्मर हर्तुकामः ॥९९०॥
कस्यचित् ।