१०२ चन्द्रोपालम्भः

यस् तापः शमितो मृगाङ्क जगतां या म्लानिर् उन्मूलिता
यामिन्या गगनस्य याः स्मृतिपथं नीतास् तमोवीचयः ।
यत् क्षामत्वम् अपाकृतं जलनिधेर् यः कैरवाणां हृतो
मोहस् तत् कथम् अत्र दुःखिनि जने सर्वं समावेशितम् ॥९८१॥

उमापतिधरस्य ।

प्रियविरहअमहुष्ण्यान् मुर्मुरामङ्गलेखा
मयि हतकहिमांशो मा स्पृश क्रीडयापि ।
इह हि तव लुठन्तः प्लोषभावं भजन्ते
दरजरठमृणालीकाण्डमुग्धा मयूखाः ॥९८२॥

राजशेखरस्य । (वि।शा।भ। ३।२३, सु।र। ७१४)

सूतिर् दुग्धसमुद्रतो भगवतः श्रीकौस्तुभौ सोदरौ
सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः ।
स्पर्धा ते वदनाम्बुजैर् मृगदृशां तत्स्थाणुचूडामणे
हंहो चन्द्र कथं नु मुञ्चसि मयि ज्वालामुचो वेदनाः ॥९८३॥

कस्यचित् । (वि।शा।भ। ३।१३, सु।र। ७९९)

मुखरय स्वयशो नवडिण्डिमं
जलनिधेः कुलम् उज्ज्वलयाधुना ।
अपि गृहाण वधूवधपौरुषं
हरिणलाञ्छन मुञ्च कदर्थनाम् ॥९८४॥

कविपण्डितश्रीहर्षस्य । (न्च् ४।५३)

आश्वासयति काकोऽपि
दुःखितां पथिकाङ्गनाम् ।
त्वं चन्द्रामृतजन्मापि
दहसीति किम् उच्यताम् ॥९८५॥

काश्मीरकमहामनुष्यस्य । (स्व् १९५६)