तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद् द्युतिस्
तच् चक्षुर् यदि हारितं कुवलयैस् तच् चेत् स्मितं का सुधा ।
धिक् कन्दर्पधनुर्भ्रुवौ च यदि ते किं वा बहु ब्रूमहे
यत् सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥९६६॥
राजशेखरस्य । (बा।रा। २।१७, स।क।आ। ४।७२, वि।शा।भ। १।१४, सा।द। उन्देर् १०।११३, सु।र। ४५७, शा।प। ३३७३)
दृष्टं चेन् मुखम् उन्मुखेन शशिना धूमायिते चक्षुषी
स्पृष्टा चेद् इदमीयकान्तिकुलिशैः क्लिश्यन्ति हन्त त्वचः ।
जाता स्मो बत वीणयापि वधिरास् तस्याः श्रुतं चेद् वचः
पीतश् चेद् अधरस् तद् इद्त्थम् अभजद् द्राक्षारसः क्षारताम् ॥९६७॥
कस्यचित् ।
निर्माणनैपुणविधेर् अवधिविधातुर्
उद्दामधाम मकरध्वजराजधानी ।
सा चन्द्रबिम्बवदना तरलायताक्षी
साक्षाद् इयं किम् अपि जन्मपरिग्रहस्य ॥९६८॥
कस्यचित् ।
सा यैर् दृष्टा न वा दृष्टा मुषिताः समम् एव ते ।
हृतं हृदयम् एकेषाम् अन्येषां चक्षुषः फलम् ॥९६९॥
कस्यचित् । (सु।र। ५००)
आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
उपमानस्यापि सखे प्रत्युपमानं वपुस् तस्याः ॥९७०॥
कालिदासस्य । (विक् २।३)