०९८ तनुता

विगलन्तीं दधे यावद्दोष्णा जघनमेखलाम् ।
तावत् कलापवलयं विवेद गलितं न सा ॥९६१॥

रुद्रटस्य ।

स्मरेण सन्तक्ष्य वृथैव बाणैर्
लावण्यशेषां कृअताम् अनायै ।
अनङ्गताम् अप्य् अयम् आप्यमानः
स्पर्धां न सार्धं विजहासि तेन ॥९६२॥

कविपण्डितश्रीहर्षस्य । (न्च् ३।१०९)

सर्वात्मना प्रहरतापि मनोभवेन
सन्दर्शितं परमकौतुकम् आयताक्ष्याः ।
लावण्यविभ्रमविलासविचेष्टितानि
नो खण्डितानि गमिता च तनुस् तनुत्वम् ॥९६३॥

भासोकस्य । (स्व् १०८८)

एकां कृत्वा तनुम् अनुपमां चन्द्रचूडेन सार्धं
यस् त्यक्तोऽर्धः सततविरहक्लेशभागी भवान्या ।
तेनाङ्गानां रचितम् उचितं संविभक्तेन कर्तुं
नूनं दूनां तनुतनुलतां निर्ममे तां विरिञ्चिः ॥९६४॥

आचार्यगोपीकस्य ।

अपनिद्रमधूकपाण्डुरा
सुदृशोऽदृश्यत गण्डमण्डली ।
गमिताश्रुजलप्लवैर् इव
क्रशिमाकीर्णतयापि निम्नताम् ॥९६५॥

शिल्हणस्य ।