०९७ नायिकाभिलाषः

तिर्यग्वर्तितगात्रयष्टिविषमोद्वृत्तस्तनास्फालन
त्रुट्यन्मौक्तिकमालया सपुलकस्वेदोल्लसद्गण्डया ।
दूराद् एव विलोकयेत्य् अभिमते तद् वक्त्रदत्तेक्षणं
दुर्वारस्मरया तया सहचरी गाढं समालिङ्गिता ॥९५६॥

रुद्रटस्य । (शृ।ति। १।५६अ)

अभिमुखगते यस्मिन्न् एव प्रिये बहुशो वदत्य्
अवनतमुखं तूष्णीम् एव स्थितं मृगनेत्रया ।
अथ किल वलल्लीलालोकं स एष तथेक्षितः
कथम् अपि यथा दृष्टा मन्ये कृतं श्रुतिलङ्घनम् ॥९५७॥

तस्यैव । (शृ।ति। १।५६अ)

व्याजृम्भणोन्नमितदन्तमयूखजाल
व्यालम्बिमौक्तिकगुणं रमणे मुदेव ।
ऊर्ध्वं मिलद्भुजलतावलयप्रपञ्च
सत्तोरणं हृदि विशत्य् अपरा व्युदासे ॥९५८॥

तस्यैव । (शृ।ति। १।५७ब्)

प्रविशति यथा गेहेऽकस्माद् बहिश् च विचेष्टते
वदति च यथा सख्या सार्धं सहासम् इहोत्सुका !
दयितवदनालोके मन्दं यथा च चलत्य् असौ
मृगदृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥९५९॥

तस्यैव । (शृ।ति। २।७अ)

न जाने सम्मुखायाते प्रियाणि वदति प्रिये ।
सर्वाण्य् अङ्गानि मे यान्ति श्रोत्रतां किम् उ नेत्रताम् ॥९६०॥

अमरोः (अमरु ६३, पद्या॥ २३४, स्व्। २०३८, शा।प॥ ३५२२)