शिखरिणि क्व नु नाम कियच् चिरं
किम् अभिधानम् असाव् अकरोत् तपः ।
तरुणि येन तवाधरपाटलं
दशति बिम्बफलं शुकशावकः ॥९५१॥
धर्मकीर्तेः । (स्व् २०३०, सा।द। उन्देर् ४।९, सु।र। ४३९)
आर्यानङ्ग महाव्रतं विदधता विन्ध्यानिलैः पारणां
कृत्वा साङ्गम् अकारि केन मुरलाकूले कठोरं तपः ।
येनास्या रतिखेदमेदुरमृदुश्वासाधिवासस्पृशः
पीयन्तेऽधरसीधवो विहसितज्योत्स्नोपदंशं रहः ॥९५२॥
योगोकस्य ।
ध्यायन् किं दनुजद्विषं क्व नु महातीर्थे क्व पुण्ये क्षणे
कैर् वा निर्मलकर्मभिः करिपतिः प्राणव्ययं लम्भितः ।
द्यूते यद्दशनांशुपाशकयुगं हाराभिरामोल्लसन्
नीरन्ध्रस्तनमण्डलद्वयम् इदं मृदङ्गि मृद्गाति ते ॥९५३॥
आचार्यगोपीकस्य ।
अधीराक्ष्याः पीनस्तनकलसम् आस्कन्दसि मुहुः
क्रमाद् ऊरुद्वन्द्वं कलयसि च लावण्यललितम् ।
भुजाश्लिष्टो हर्षाद् अनुभवसि हस्ताहृतिकलाम्
अये वीणादण्ड प्रकटय फलं कस्य तपसः ॥९५४॥
वाचस्पतेः । (सु।र। ४२२)
न नीलाब्जं चक्षुः सरसिरुहम् एतन् न वदनं
न बन्धूकस्येदं मुकुलम् अधरस् तद्द्युतिधरः ।
ममाप्य् एषा भ्रान्तिः प्रथमम् अभवद् भृङ्ग किम् उ ते
कृतं यत्नैर् एभ्यो विरम विरमेत्य् अञ्जलिर् अयम् ॥९५५॥
राजशेखरस्य । (सु।र। ४०९)